मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७५, ऋक् ३

संहिता

ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगु॑ः ।
ज॒नय॑न्तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णन्तो॑ अ॒न्तरि॑क्षा॒ व्य॑स्थुः ॥

पदपाठः

ए॒ते । त्ये । भा॒नवः॑ । द॒र्श॒तायाः॑ । चि॒त्राः । उ॒षसः॑ । अ॒मृता॑सः । आ । अ॒गुः॒ ।
ज॒नय॑न्तः । दैव्या॑नि । व्र॒तानि॑ । आ॒ऽपृ॒णन्तः॑ । अ॒न्तरि॑क्षा । वि । अ॒स्थुः॒ ॥

सायणभाष्यम्

दर्शतायाः दर्शनीयायाः प्रकाशयुक्तायाउषसः एते पुरोदृश्यमानाः त्ये ते प्रसिद्धाश्चित्राः पूज्याआश्चर्यभूतावा अमृतासःअमरणा अनश्वरा भानवोरश्मयः आ अगुः आगच्छन्ति । किं कुर्वन्तः दैव्यानि देवानां संबन्धीनि व्रतानि कर्माणि जनयन्तः उत्पादयन्तः तदनुकूलप्रकाश- प्रदानात्तदुत्पादकत्वमेषां अन्तरिक्षाअन्तरिक्षाणि आपृणन्त आपूरयन्तः एकस्यैवान्तरिक्षस्य वायुमेघपक्षिणामालंबनोपाधिना त्रिविधत्वं अतोबहुवचनमुपपन्नं एवं कुर्वन्तोभानवोव्यस्थुः विविधं तिष्ठति प्रसरंति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२