मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७७, ऋक् ५

संहिता

अ॒स्मे श्रेष्ठे॑भिर्भा॒नुभि॒र्वि भा॒ह्युषो॑ देवि प्रति॒रन्ती॑ न॒ आयु॑ः ।
इषं॑ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा॑व॒द्रथ॑वच्च॒ राधः॑ ॥

पदपाठः

अ॒स्मे इति॑ । श्रेष्ठे॑भिः । भा॒नुऽभिः॑ । वि । भा॒हि॒ । उषः॑ । दे॒वि॒ । प्र॒ऽति॒रन्ती॑ । नः॒ । आयुः॑ ।
इष॑म् । च॒ । नः॒ । दध॑ती । वि॒श्व॒ऽवा॒रे॒ । गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । च॒ । राधः॑ ॥

सायणभाष्यम्

हे उषोदेवि अस्मे अस्मभ्यं श्रेष्टेभिः प्रशस्यैर्भानुभीरश्मिभिः प्रकाशैर्विभाहि प्रकाशय किंकुर्वती नोस्माकमायुरायुष्यं प्रकर्षेण तिरन्ती प्रवर्धयन्ती हे विश्ववारे विश्वैः संभजनीये देवि नोस्मभ्यमिषञ्च गोमत् गोभिर्बहुभिरुपेतं अश्वावत् अश्वैश्चोपेतं रथवद्रथैरुपेतं राधोध- नञ्च दधती विभाहीति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४