मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७८, ऋक् ४

संहिता

अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यन्त्यु॒षसं॑ विभा॒तीम् ।
आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वह॑न्ति ॥

पदपाठः

अचे॑ति । दि॒वः । दु॒हि॒ता । म॒घोनी॑ । विश्वे॑ । प॒श्य॒न्ति॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् ।
आ । अ॒स्था॒त् । रथ॑म् । स्व॒धया॑ । यु॒ज्यमा॑नम् । आ । यम् । अश्वा॑सः । सु॒ऽयुजः॑ । वह॑न्ति ॥

सायणभाष्यम्

दिवोदुहिता मघोनी धनवती उषाः अचेति सर्वैर्ज्ञायते विश्वे सर्वेपि प्राणिनोविभातीं उच्छन्तीं उषसं पश्यन्ति ताद्रुशी देवी स्वधयान्नेन युज्यमानं रथं आस्थात् आतिष्ठत् आरोहति यं रथं सुयुजः शोभनयोजना अश्वासोऽश्वाः आवहन्ति अभिमतदेशं प्रापयन्ति तं स्थमास्थादिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५