मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७९, ऋक् ३

संहिता

अभू॑दु॒षा इन्द्र॑तमा म॒घोन्यजी॑जनत्सुवि॒ताय॒ श्रवां॑सि ।
वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यङ्गि॑रस्तमा सु॒कृते॒ वसू॑नि ॥

पदपाठः

अभू॑त् । उ॒षाः । इन्द्र॑ऽतमा । म॒घोनी॑ । अजी॑जनत् । सु॒वि॒ताय॑ । श्रवां॑सि ।
वि । दि॒वः । दे॒वी । दु॒हि॒ता । द॒धा॒ति॒ । अङ्गि॑रःऽतमा । सु॒ऽकृते॑ । वसू॑नि ॥

सायणभाष्यम्

इन्द्रतमा सर्वस्येश्वरतमा मघोनी धनवती उषा अभूत् प्रादुरभूत् सुविताय कल्याणाय श्रवांस्यन्नानि अजीजनत् उदपादयत् प्रकाशित् वतीत्यर्थः दिवोदुहिता देवीद्योतमाना अंगिरस्तमा गन्तृतमा यद्वा अङ्गिरोगोत्रैर्भरद्वाजैः सह रात्रेरप्युत्पत्तेः रात्र्यवसानस्योषारूप- त्वादङ्गिरस्तमेत्युच्यते भारद्वाजैरात्रेः सहोत्पत्तिरनुक्रमण्यामुक्ता रात्र्यवसानस्योषारूपत्वादङ्गिरस्तमेत्युच्यते भारद्वाजैरात्रैः सहोत्प- त्तिरनुक्रमण्यामुक्ता रात्रिःकुशिकः सौभरो रात्रिर्वाभारद्वाजीति तादृश्युषाः सुकृते यजमानाय वसूनि धनानि विदधाति करोति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६