मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८०, ऋक् ३

संहिता

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒ः सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वत॒ः प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।
घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

अश्वावतीर्बहुभिर्नोस्मभ्यं प्रदेयैरश्वैस्तद्वत्यः तथा गोमतीर्गोमत्यो गोप्रदाः वीरवतीर्वीरवत्यः पुत्रप्रदाः अतएवभद्राः स्तुत्याउषासउषसः सदं सर्वदा उच्छंतु पुनः कीदृश्यः घृतं उदकं दुहानाः दोग्ध्यं विश्वतः प्रपीताः सर्वतः प्रवृद्धाः । यूयंपातेतिगतम् ॥ ३ ॥

वेदार्थस्यप्रकाशेनतमोहर्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहे वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके पञ्चमोध्यायः समाप्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७