मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८१, ऋक् ३

संहिता

प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि ।
या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ॥

पदपाठः

प्रति॑ । त्वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । उषः॑ । जी॒राः । अ॒भु॒त्स्म॒हि॒ ।
या । वह॑सि । पु॒रु । स्पा॒र्हम् । व॒न॒न्ऽव॒ति॒ । रत्न॑म् । न । दा॒शुषे॑ । मयः॑ ॥

सायणभाष्यम्

हे दिवोदुहितः दिवोन्तरिक्षाज्जायमाने हेउषः उषोदेवते त्वा त्वां जीराः क्षिप्रकारिणोवयं प्रत्यभुत्स्महि प्रतिबोद्धारोभवेम हे वनन्वति वननं संभजनं संभक्तव्यं धनं वा तद्वति या त्वं पुरु बहु स्पार्हं स्पृहणीयं धनं वहसि प्रापयसि दशुषे हवींषि दत्तवते यजमानाय रत्नं न रमणीयं धनमिव मयः सुखंच या त्वं वहसि तां त्वां प्रत्यभुत्स्महीत्यन्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः