मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् ३

संहिता

अन्व॒पां खान्य॑तृन्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् ।
इन्द्रा॑वरुणा॒ मदे॑ अस्य मा॒यिनोऽपि॑न्वतम॒पित॒ः पिन्व॑तं॒ धियः॑ ॥

पदपाठः

अनु॑ । अ॒पाम् । खानि॑ । अ॒तृ॒न्त॒म् । ओज॑सा । आ । सूर्य॑म् । ऐ॒र॒य॒त॒म् । दि॒वि । प्र॒ऽभुम् ।
इन्द्रा॑वरुणा । मदे॑ । अ॒स्य॒ । मा॒यिनः॑ । अपि॑न्वतम् । अ॒पितः॑ । पिन्व॑तम् । धियः॑ ॥

सायणभाष्यम्

हे इन्द्रावरुणौ अपामुदकानां खानि द्वाराणि वृत्रेण पिहितानि ओजसा बलेन अन्वतृन्तं अन्वविध्यतं आवरकस्य वृत्रस्य वधेन वृष्टिप्रतिबन्धं निराकृतवन्तावित्यर्थः तथा सूर्यं सर्वस्य प्रेरकमादित्यं दिव्यंतरिक्षे प्रभुं प्रभूतं सन्तं ऎरयतं अभ्यगमयतम् स्वर्भानुना वृतं सूर्यं तद्वधेन प्रकाशितवन्तावित्यर्थः हे इन्द्रावरुणा इन्द्रावरुणौ मायिनः प्रज्ञाकरस्य अस्यसोमस्य पानेन मदे हर्षेसति अपितः जल- रहितानदीः अपिन्वतं जलेनापूरयतम् । तथाच निवित्पदमाम्नायतेअस्यमदेजरितरिंद्रोजिन्वदजुवोपिन्वदपितइति । अपिच धियः कर्माण्यस्माभिर्नुष्ठितानि कर्माणि पिन्वतं सिञ्चतं फलेन पूरयतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः