मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् ८

संहिता

अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः ।
यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमि॑न्द्रावरुणा॒ नि य॑च्छतम् ॥

पदपाठः

अ॒र्वाक् । न॒रा॒ । दैव्ये॑न । अव॑सा । आ । ग॒त॒म् । शृ॒णु॒तम् । हव॑म् । यदि॑ । मे॒ । जुजो॑षथः ।
यु॒वोः । हि । स॒ख्यम् । उ॒त । वा॒ । यत् । आप्य॑म् । मा॒र्डी॒कम् । इ॒न्द्रा॒व॒रु॒णा॒ । नि । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे नरा नेताराविन्द्रावरुणौ दैव्येन देवसंबन्धिना अवसा रक्षणेन श अर्वागस्मदभिमुखं आगतमागच्छतम् आगत्यच मदीयं स्तोत्रं हवं श्रृणुतम् । यदि मे मम जुजोषथः प्रीयेथे मयिप्रीतिरस्तिचेत् युवाभ्यां आगन्तव्यं मदीयं स्तोत्रं श्रोतव्यञ्च भवतीत्यर्थः । युवोर्हि युवयोः खलु यत्सख्यं सखित्वं उतवा अपिच यदाप्यं आपित्वं बान्धवं बान्धवं मार्डीकं मृडीकस्य सुखस्य साधनं तदुभयं हे इन्द्रावरुणौ नियच्छतं अस्मभ्यं प्रयच्छतं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः