मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् ९

संहिता

अ॒स्माक॑मिन्द्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा ।
यद्वां॒ हव॑न्त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥

पदपाठः

अ॒स्माक॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । भरे॑ऽभरे । पु॒रः॒ऽयो॒धा । भ॒व॒त॒म् । कृ॒ष्टि॒ऽओ॒ज॒सा॒ ।
यत् । वा॒म् । हव॑न्ते । उ॒भये॑ । अध॑ । स्पृ॒धि । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तिषु॑ ॥

सायणभाष्यम्

हे कृष्ट्योजसा शत्रूणां कर्षणकं ओजोबलं ययोः तादृशौ हे इन्द्रावरुणौ भरेभरे संग्रामेसंग्रामे अस्माकं पुरोयोधा पुरस्ताद्योधारौभवतं यत् यौ वां युवां उभये उभयविधाः पूर्वकालीना इदानींतनाश्च नरो नेतारः स्तोतारः स्पृधि युद्धे यौ युवां हवन्ते अध अपिच तोकस्य पुत्रस्य तनयस्य पौत्रस्य सातिषु संभजनीयेषु निमित्तभूतेषुच यौ युवां हवन्ते तावस्माकं पुरोयोधा भवतमित्यन्वयः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः