मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् १०

संहिता

अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ ।
अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥

पदपाठः

अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।
अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥

सायणभाष्यम्

अस्मे इन्द्रइति व्याख्यातेयम् अक्षरार्थस्तु इन्द्रादयोस्मभ्यं द्योतमानं धनंप्रयच्छंतु सर्वतोविस्तीर्णं महद्गृहञ्च यज्ञस्य वर्धयित्र्याः अदी- नायादेवमातुः तजेश्च अस्माकमबाधकं भवतु वयञ्च प्रेरकस्य देवस्य स्तोत्रं मनामहे कुर्महे ॥ १० ॥

आवामिति पञ्चर्चं चतुर्दशं सूक्तम् वासिष्ठं त्रैष्टुभमैन्द्रावरुणम् अनुक्रान्तञ्च-आवांपञ्चेति । उक्थ्ये तृतीयसवने मैत्रावरुणशस्त्रे इदंसूक्तम् सूत्रितञ्च-आवांराजानाविन्द्रावरुणामधुमत्तमस्येति याज्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः