मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८४, ऋक् ४

संहिता

अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् ।
प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥

पदपाठः

अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । वि॒श्वऽवा॑रम् । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।
प्र । यः । आ॒दि॒त्यः । अनृ॑ता । मि॒नाति॑ । अमि॑ता । शूरः॑ । द॒य॒ते॒ । वसू॑नि ॥

सायणभाष्यम्

हे इन्द्रावरुणौ अस्मे अस्मभ्यं रयिं धनं धत्तं प्रयच्छतम् कीदृशं विश्ववारं विश्वैः सर्वैर्वरणीयं संभजनीयं वसुमन्तं निवासयुक्तं पुरुक्षुं बह्वन्नं पुरुभिर्बहुभिः प्रशस्यं वा आदित्यः अदितेः पुत्रोयोवरुणः अनृता अनृतानि सत्यरहितानि भूतानि प्रमिनाति प्रहिनस्ति मीञ् हिंहिंसायामितिधातुः शूरः शौर्यवान् सवरुणः अमिता अमितानि अपरिमितानि वसूनि धनानि दयते स्तोतृभ्योददाति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः