मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८५, ऋक् १

संहिता

पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुह्व॑त् ।
घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥

पदपाठः

पु॒नी॒षे । वा॒म् । अ॒र॒क्षस॑म् । म॒नी॒षाम् । सोम॑म् । इन्द्रा॑य । वरु॑णाय । जुह्व॑त् ।
घृ॒तऽप्र॑तीकाम् । उ॒षस॑म् । न । दे॒वीम् । ता । नः॒ । याम॑न् । उ॒रु॒ष्य॒ता॒म् । अ॒भीके॑ ॥

सायणभाष्यम्

हे इन्द्रावरुणौ वां युवाभ्यं युवयोरर्थं अरक्षसं रक्षोरहितां राक्षसैरसंस्पृष्टां मनीषां स्तुतिं पुनीषे शोधयामि किंकुर्वन् इन्द्राय वरुणायच सोम जुह्वत् इन्द्रंवरुणंचोद्दिश्य सोमं अग्नौप्रक्षिपन् । कीदृशीं मनीषाम् देवीं द्योतमानाम् उषसंन उषसमिव घृतप्रतीकांदीप्तावयवां शिष्टःपरोक्षकृतः ता ताविन्द्रावरुणौ अभीके अभिगते युद्धे यामन् यामनि युद्धार्थं गमनेसति नोस्मान् उरुष्यतां रक्षताम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः