मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८६, ऋक् ३

संहिता

पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् ।
स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥

पदपाठः

पृ॒च्छे । तत् । एनः॑ । व॒रु॒ण॒ । दि॒दृक्षु॑ । उपो॒ इति॑ । ए॒मि॒ । चि॒कि॒तुषः॑ । वि॒ऽपृच्छ॑म् ।
स॒मा॒नम् । इत् । मे॒ । क॒वयः॑ । चि॒त् । आ॒हुः॒ । अ॒यम् । ह॒ । तुभ्य॑म् । वरु॑णः । हृ॒णी॒ते॒ ॥

सायणभाष्यम्

हे वरुण तदेनः पापं पृच्छे त्वां पृच्छामि दिदृक्षु छान्दसः सुलोपः द्रष्टुमिच्छन्नहं येन पापेन हेतुना त्वदीयैः पाशैर्बद्धोस्मि पृष्टःसन् तत्पापं कथय अहं विपृच्छं विविधं प्रष्टुं चिकितुषोविदुषोजनान् उपोएमि उपागाम् ते कवयश्चित् क्रान्तदर्शिनोजनाश्च मे मह्यं समान- मित् समानमेव एकरूपमेव आहुः अकथयन् यदाहुस्तदाह हे स्तोतः तुभ्यं अयं ह अयमेव वरुणोहणीते क्रुधयतीति अतः क्रोधं परित्यज्य अस्मान्पाशेभ्योमोचय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः