मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८६, ऋक् ५

संहिता

अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभि॑ः ।
अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥

पदपाठः

अव॑ । द्रु॒ग्धानि॑ । पित्र्या॑ । सृ॒ज॒ । नः॒ । अव॑ । या । व॒यम् । च॒कृ॒म । त॒नूभिः॑ ।
अव॑ । रा॒ज॒न् । प॒शु॒ऽतृप॑म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः॑ । वसि॑ष्ठम् ॥

सायणभाष्यम्

हे वरुण पित्र्या पितृतः प्राप्तानि नोस्मदीयानि दुग्धानि द्रोहान् बन्धनहेतुभूतान् अवसृज विमुञ्च अस्मत्तोविश्लेषय वयंच या यानि द्रोह- जातानि तनुभिः शरीरैः चकृम कृतवन्तः स्म तानिच अवसृज । हे राजन् राजमान वरुण पशुतृपं न तायुं स्तैन्यप्रयश्चित्तं कृत्वा अव- साने घासादिभिः पशूनां तर्पयितारं स्तेनमिव दाम्नोरज्जोर्वत्सं न वत्समिव च वसिष्ठं मां बन्धकात्पापातवसृज विमुञ्च ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः