मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८६, ऋक् ७

संहिता

अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।
अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥

पदपाठः

अर॑म् । दा॒सः । न । मी॒ळ्हुषे॑ । क॒रा॒णि॒ । अ॒हम् । दे॒वाय॑ । भूर्ण॑ये । अना॑गाः ।
अचे॑तयत् । अ॒चितः॑ । दे॒वः । अ॒र्यः । गृत्स॑म् । रा॒ये । क॒विऽत॑रः । जु॒ना॒ति॒ ॥

सायणभाष्यम्

मीह्ळुषे सेक्रे कामानां वर्षित्रे भूर्णये जगतोभर्त्रे देवाय दानादिगुणयुक्ताय वरुणाय अनागाः तत्प्रसादात् अपापः सन्नहं अरं अलं पर्याप्तं कराणि परिचरणं करवाणि दासोन यथा भृत्यः स्वामिने सम्यक्परिचरति तद्वत् अर्यः स्वमी सच देवः अचितः अजानतोस्मान् अचेत- यत् चेतयत् प्रज्ञापयतु गृत्सं स्तोतारंच कवितारः प्राज्ञतरोदेवः राये धनाय धनप्राप्त्यर्थं जुनाति जुनातु प्रेरयतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः