अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् ।ग॒म्भी॒रशं॑सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥
अव॑ । सिन्धु॑म् । वरु॑णः । द्यौःऽइ॑व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि॑ष्मान् ।
ग॒म्भी॒रऽशं॑सः । रज॑सः । वि॒ऽमानः॑ । सु॒पा॒रऽक्ष॑त्रः । स॒तः । अ॒स्य । राजा॑ ॥
द्यौरिव सूर्यइव दीप्तोवरुणः सिन्धुं समुद्रं अवस्थात् वेलायामवस्थापयति यथावेलां नातिक्रामति तथा करोतीत्यर्थः । कीदृशोवरुणः द्रप्सोन द्रवणशीलउदकबिन्दुरिव श्वेतः शुभ्रवर्णः मृगः लुप्तोपममेतत् गौरमृगइव तुविष्मान बलवान् प्रवृद्धोवा गंभीरशंसः गंभीरोमहान् शंसः स्तोत्रं यस्य सतथोक्तः रजसः उदकस्य विमानोनिर्माता सुपारक्षत्रः सुष्ठु दुःखात् पारकं क्षत्रं बलं धनं वा यस्य तादृशोवरुणः सतो- विद्यमानस्यास्य जगतोराजा ईश्वरोभवति ॥ ६ ॥