मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८८, ऋक् २

संहिता

अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि ।
स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥

पदपाठः

अध॑ । नु । अ॒स्य॒ । स॒म्ऽदृश॑म् । ज॒ग॒न्वान् । अ॒ग्नेः । अनी॑कम् । वरु॑णस्य । मं॒सि॒ ।
स्वः॑ । यत् । अश्म॑न् । अ॒धि॒ऽपाः । ऊं॒ इति॑ । अन्धः॑ । अ॒भि । मा॒ । वपुः॑ । दृ॒शये॑ । नि॒नी॒या॒त् ॥

सायणभाष्यम्

अध अधुना अस्य वरुणस्य संदृशं सन्दर्शनं नु क्षिप्रं जगन्वान् गतवानहं अग्नेरनीकं ज्वालासंघं मंसि स्तवानि तं वरुणं यष्टुमितिशेषः यद्यदा वरुणः स्वः सुखकरं अश्मन् अश्मनि अभिषवार्थे पाषाणे अवस्थितमभिषुतमित्यर्थः ईदृशं अन्धः सोमलक्षणमन्नं अधिपाः अ- धिकं पाता भवेत् छान्दसः षष्ठ्यभावः उइतिपूरकः तदानीं मा मां वपुः शरीरं स्वकीयं वपुरितिरूपनाम प्रशस्तं रूपं वा दृशये दर्शनार्थं अभिनिनीयादभिप्रापयेत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०