मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८८, ऋक् ७

संहिता

ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् ।
अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ध्रु॒वासु॑ । त्वा॒ । आ॒सु । क्षि॒तिषु॑ । क्षि॒यन्तः॑ । वि । अ॒स्मत् । पाश॑म् । वरु॑णः । मु॒मो॒च॒त् ।
अवः॑ । व॒न्वा॒नाः । अदि॑तेः । उ॒पऽस्था॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

ध्रुवासु नित्यासु आसु दृश्यमानासु क्षितिषु भूमिषु क्षियन्तः निवसन्तोवयं हे वरुण त्वा त्वां स्तुमइतिशेषः सच वरुणः अस्मत् अस्मत्तः पाशं बन्धकं पापं विमुमोचत् मोचयेत् तथा अदितेः अखण्डनीयायाः पृथिव्याः उपस्थादुपस्थानात् अवोरक्षणं वरुणेन दत्तं वन्वानाः संभजमानावयं स्याम अन्यद्गतम् ॥ अत्र ऋग्विधानम्-ध्रुवासुत्वासुक्षितिषु जपन् बन्धात्प्रमुच्यते । तिष्ठन्त्रात्रौजपेदेतां पिशाचस्तंन- गच्छतीति ॥ ७ ॥

मोषुवरुणेति पञ्चर्चमेकविंशं सूक्तं वसिष्ठस्यार्षंवारुणंअन्त्याजगती शिष्टाश्चतस्रोगायत्र्यः तथाचानुक्रान्तम् मोषुपञ्चगायत्रं जगत्यन्तमिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०