मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९०, ऋक् २

संहिता

ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।
कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥

पदपाठः

ई॒शा॒नाय॑ । प्रऽहु॑तिम् । यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपाः॒ । तुभ्य॑म् । वा॒यो॒ इति॑ ।
कृ॒णोषि॑ । तम् । मर्त्ये॑षु । प्र॒ऽश॒स्तम् । जा॒तःऽजा॑तः । जा॒य॒ते॒ । वा॒जी । अ॒स्य॒ ॥

सायणभाष्यम्

हे वायो ईशानाय ईश्वराय ते तुभ्यं त्वदर्थं प्रहुतिं प्रकृष्टामाहुतिं चरुपुरोडाशादिसाध्यां योयजमान आनट् व्याप्नोत् दद्यादित्यर्थः तथा हे शुचिपाः शुद्धस्य सोमस्य पातर्वायो तुभ्यं शुचिं शुद्धं सोमं च यः प्रयच्छति मर्त्येषु मनुष्येषु मध्ये तं यजमानं प्रशस्तं मुख्यं कृणोषि करोषि सच जातोजातः सर्वत्र प्रादुर्भूतः प्रख्यातः सन् वाजी अस्य प्राप्तस्य धनस्य प्राप्तये जायते अवकल्पते सर्वं धनं लभते ईत्यर्थः ॥ २ ॥ नियुत्वद्गुण विशिष्टवायुदेवताके पशौ रायेनुयमिति पुरोडाशस्य याज्या सू*त्रितञ्च-रायेनुयंजज्ञतूरोदसीमे प्रवायुमच्छाबृहती- मनीषेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२