मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९०, ऋक् ४

संहिता

उ॒च्छन्नु॒षसः॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः ।
गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ॥

पदपाठः

उ॒च्छन् । उ॒षसः॑ । सु॒ऽदिनाः॑ । अ॒रि॒प्राः । उ॒रु । ज्योतिः॑ । वि॒वि॒दुः॒ । दीध्या॑नाः ।
गव्य॑म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः॑ । वि । व॒व्रुः॒ । तेषा॑म् । अनु॑ । प्र॒ऽदिवः॑ । सस्रुः॑ । आपः॑ ॥

सायणभाष्यम्

येङ्गिरसोवायुमस्तोषत तेषां अरिप्राः पापरहिता उषसः सुदिनाः शोभनदिनस्य हेतुभूताः सत्यः उच्छन् औच्छन् व्यवासयन् तेच दीध्यानाः दीप्यमानाः सन्तः उरु विस्तीर्णं ज्योतिः सूर्याख्यं विविदुः वायोः प्रसादादलभन्त । अपिच उशिजः कामयमानाः तेअंगिरसः गव्यं चित् गोसङ्घरूपमपि ऊर्वं धनं पणिभिरपत्दृतं विवव्रुः व्यवृण्वन् अलभन्त । तथा तेषामङ्गिरसामर्थाय प्रदिवः पुराण्यः आपः अनुसस्रुः अन्वसरन् अन्वगच्छन् हिताः हिताचरणपरा आसन्नित्यर्थः आवरकस्यासुरस्य वायुनाहननात् असुरेणाहृतानुषः- प्रभृतीन् पुनर्लब्धवन्तइत्यर्थः ॥ ४ ॥ तृतीये छन्दोमे प्रउगशस्त्रे तेसत्येनेत्यैन्द्रवायवस्तृचः सूत्रितंच-तेसत्येनमनसादीध्यानादिविक्षयन्तारजसः पृथिव्यामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२