मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९०, ऋक् ७

संहिता

अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
वा॒ज॒यन्त॒ः स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।
वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

अर्वन्तोन अश्वाइव हविषां वोढारः श्रवसोन्नस्य द्वितीयार्थे षष्ठी अन्नं भिक्षमाणाः याचमानाः वाजयन्तः वाजं बलमात्मन इच्छन्तो वसिष्ठाः वयं स्ववसे शोभनरक्षणाय सुष्ठुतर्पणाय वा सुष्टुतिभिः शोभनाभिः स्तुतिभिः इन्द्रवायु इन्द्रं वायुं च हुवेम आह्वयेमहि । अन्यद्गतम् ॥ ७ ॥

कुविदंगोति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यं कुविदंगेत्यनुक्रान्तम् । गतः सूक्तविनियोगः । वायव्ये पशौ कुविदंगेति वपायाज्या सूत्रितञ्च-कुविदङ्गनमसायेवृधासईशानायप्रहुतिंयस्तआनळिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२