मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९१, ऋक् १

संहिता

कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् ।
ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥

पदपाठः

कु॒वित् । अ॒ङ्ग । नम॑सा । ये । वृ॒धासः॑ । पु॒रा । दे॒वाः । अ॒न॒व॒द्यासः॑ । आस॑न् ।
ते । वा॒यवे॑ । मन॑वे । बा॒धि॒ताय॑ । अवा॑सयन् । उ॒षस॑म् । सूर्ये॑ण ॥

सायणभाष्यम्

दीव्यंति स्तुवन्तीति देवाः स्तोतारः पुरा पूर्वस्मिन्काले ये वृद्धासो वृद्धादेवाः स्तोतारः कुविदिति बहुनाम अङ्गेति क्षिप्र नाम कुवि- द्बहुशः अङ्ग क्षिप्रं कृतेन नमसा वायुविषयेण स्तोत्रेण नमस्कारेण वा अनवद्यासः अवद्यरहिताः आसन् तेद्यापि वायवे हवींषि दातुं सूर्येण सह उषसं अवासयन् उषसो वृष्टिं सूर्योदयञ्च वायुयागार्थं कुर्वन्तीत्यर्थः । किमर्थं मनवे मनुष्याणां बाधिताय बाधितानां पुत्रा- दीनां रक्षणार्थमित्यर्थः यद्वा मनवे बाधितायेति षष्ठ्यर्थे चतुर्थी बाधितस्य मनोः प्रजापतेर्यागे वायवे हवींषि दातुमित्यन्वयः ॥ १ ॥ द्वितीये छन्दोमे प्रउगशस्त्रे ऎन्द्रवायवतृचस्य उशन्तेत्येषा प्रथमा सूत्रितञ्च-उशन्तादूतानदभायगोपायावत्तरस्तन्वोयावदोजइत्ये- काद्वेचेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३