मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९१, ऋक् ७

संहिता

अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
वा॒ज॒यन्त॒ः स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।
वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

व्याख्यातेयं अक्षरार्थस्तु अश्वाइव हविषां वोढारः अन्नं याचमानाः बलं कामयमानाः वसिष्ठाः वयं शोभनरक्षणाय शोभनैः स्तोत्रैः इन्द्रवायू आह्वयेमहीति ॥ ७ ॥

आवायोइति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम् अनुक्रान्तञ्च-आवायोपञ्चेति । शुनासीरीये पर्वणि वायोर्नियुत्वतो यागस्य आवायो इत्यनुवाक्या सूत्रितञ्च-आवायोभूषशुचिपाउपनः प्रयाभिर्यासिदाश्वांसमच्छेति । नियुत्वद्वायुदेवताके पशावेषैव वपाया अनुवाक्या प्रथमे छन्दोमे प्रउगशस्त्रे वायव्यतृचस्यैषैवाद्या सूत्रितञ्च-समुद्रादूर्मिरित्याज्यमावायोभूषशुचिपाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३