मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९२, ऋक् १

संहिता

आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार ।
उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥

पदपाठः

आ । वा॒यो॒ इति॑ । भू॒ष॒ । शु॒चि॒ऽपाः॒ । उप॑ । नः॒ । स॒हस्र॑म् । ते॒ । नि॒ऽयुतः॑ । वि॒श्व॒ऽवा॒र॒ ।
उपो॒ इति॑ । ते॒ । अन्धः॑ । मद्य॑म् । अ॒या॒मि॒ । यस्य॑ । दे॒व॒ । द॒धि॒षे । पू॒र्व॒ऽपेय॑म् ॥

सायणभाष्यम्

हे शुचिपाः शुचेः शुद्धस्य सोमस्य पातर्वायो नोस्माकं उपसमीपे आभूष आगच्छ भूप्राप्तावित्यस्यैतद्रूपम् हे विश्ववार विश्वैर्वरणीय ते तव वाहनभूताः नियुतोवडवाः सहस्रं सहस्रसङ् ख्याका विद्यन्ते यतएवं अतः शीघ्रमागच्छ । ते तव मद्यं मदकरं सोमलक्षणमन्धोन्नं उपो उप उपायामि उपयतं पात्रे गृहीतमासीत् । हे देव वायो यस्य सोमस्य पूर्वपेयं प्रथमपानं दधिषे दधासि धारयसि ऎन्द्रवायवग्रहे प्रथमे वषट्कारे केवलाय वायवे हूयते द्वितीये तु इन्द्रवायुभ्यामिति वायोः प्रथमपानं तादृशमन्धः उपायामीत्यन्वयः ॥ १ ॥ प्रथमे छन्दोमे प्रउगशस्त्रे ऎन्द्रवायतृचस्य प्रसोतेत्याद्या सूत्रितञ्च-प्रसोताजीरो अध्वरेष्वस्थाद्येवायवइन्द्रमादनासइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४