मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९२, ऋक् ३

संहिता

प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।
नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑ ॥

पदपाठः

प्र । याभिः॑ । यासि॑ । दा॒श्वांस॑म् । अच्छ॑ । नि॒युत्ऽभिः॑ । वा॒यो॒ इति॑ । इ॒ष्टये॑ । दु॒रो॒णे ।
नि । नः॒ । र॒यिम् । सु॒ऽभोज॑सम् । यु॒व॒स्व॒ । नि । वी॒रम् । गव्य॑म् । अश्व्य॑म् । च॒ । राधः॑ ॥

सायणभाष्यम्

हे वायो दुरोणे यज्ञगृहे स्थितं दाश्वांसं हविषां दातारं यजमानं इष्टये यागाय याभिर्नियुद्भिर्वडवाभिरच्छ यासि अभिगच्छसि ताभि- रस्मान् प्रत्यागच्छेति शेषः । आगत्यच नोस्मभ्यं सुभोजसं शोभनान्नयुक्तं रयिं धनं नियुवस्व नितरां मिश्रय प्रयच्छ । तथा वीरं पुत्रं गव्यं गोसंघं अश्व्यमश्वसंघं एतदुभयात्मकं राधोधनञ्च नियुवस्व प्रयच्छ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४