मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९२, ऋक् ५

संहिता

आ नो॑ नि॒युद्भि॑ः श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् ।
वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे वायो नोस्माकं अध्वरं हिंसारहितं यज्ञं शतिनीभिः शतसंख्यावतीभिः सहस्रिणीभिः सहस्रसंख्यावतीभिश्च नियुद्भिर्वडवाभिः उपा- याहि उपागच्छ तदनन्तरं अस्मिन् सवने प्रातः सवने मादयस्व सोमेन तृप्यस्व अन्यद्गतम् ॥ ५ ॥

शुचिंभि यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्राग्नं अनुक्रम्यते हि शुचिंन्वष्टावैन्द्राग्नंत्विति । गतः सूक्तविनियोगः ऎन्द्राग्नस्य पशोर्वपायाः शुचिमित्येषायाज्या सूत्रितञ्च-शुचिंनुस्तोमंनवजातमद्य गीर्भिर्विप्रः प्रमतिमिच्छमानइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४