मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९५, ऋक् १

संहिता

प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः ।
प्र॒बाब॑धाना र॒थ्ये॑व याति॒ विश्वा॑ अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥

पदपाठः

प्र । क्षोद॑सा । धाय॑सा । स॒स्रे॒ । ए॒षा । सर॑स्वती । ध॒रुण॑म् । आय॑सी । पूः ।
प्र॒ऽबाब॑धाना । र॒थ्या॑ऽइव । या॒ति॒ । विश्वाः॑ । अ॒पः । म॒हि॒ना । सिन्धुः॑ । अ॒न्याः ॥

सायणभाष्यम्

सरस्वती एषा । नदीवन्निगमा एषा दृश्यमानानदीरूपा सरस्वती आयसी अयसानिर्मिता पूः पुरीव धरुणं लिङ्गव्यत्ययः धरुणा धारयित्री धायसा धारकेण क्षोदसा उदकेन प्रसस्रे प्रधावति शीघ्रं गच्छति । सिन्धुः स्यन्दनशीला नदीरूपा सा अन्या विश्वाः सर्वाअपः आपगाः महिना महिम्ना प्रबाबधाना भृशं बाधमाना रथ्येवा प्रतोलीव विस्तीर्णासती याति गच्छति । यद्वा रथ्येव रथिनेव यथा रथी रथेन मार्गस्थं तरुगुल्मादिकं चूर्णीकृत्यगच्छति तद्वत्स्वकीयेन वेगेन सर्वं पिंषती गच्छतीत्यर्थः ॥ १ ॥ सारस्वतएवपशौ वपाया एकाचेतदित्यनुवाक्या सूत्रितं च-एकाचेतत्सरस्वतीनदीनामुतस्यानः सरस्वतीजुषाणेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९