मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् ६

संहिता

तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहन्ति ।
सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥

पदपाठः

तम् । श॒ग्मासः॑ । अ॒रु॒षासः॑ । अश्वाः॑ । बृह॒स्पति॑म् । स॒ह॒ऽवाहः॑ । व॒ह॒न्ति॒ ।
सहः॑ । चि॒त् । यस्य॑ । नील॑ऽवत् । स॒धऽस्थ॑म् । नभः॑ । न । रू॒पम् । अ॒रु॒षम् । वसा॑नाः ॥

सायणभाष्यम्

शग्मासः शग्माः सुखकराः शक्क्तावा अरुषासः आरोचमानाः सहवाहः संहत्यवाहकाअश्वाः तं वृहस्पतिं वहन्ति वहन्तु । यस्य बृहस्पतेः सहश्चित् बलंच भवति नीलवत् नीलं निलयोनिवासः तद्युक्तं सधस्थं सहस्थानंच यस्य तं बृहस्पतिमित्यन्वयः कीदृशाअश्वाः नभोन आदित्यमिव अरुषं आरोचमानं रूपं वसानाः धारयन्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२