मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९८, ऋक् १

संहिता

अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् ।
गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥

पदपाठः

अध्व॑र्यवः । अ॒रु॒णम् । दु॒ग्धम् । अं॒शुम् । जु॒होत॑न । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।
गौ॒रात् । वेदी॑यान् । अ॒व॒ऽपान॑म् । इन्द्रः॑ । वि॒श्वाहा॑ । इत् । या॒ति॒ । सु॒तऽसो॑मम् । इ॒च्छन् ॥

सायणभाष्यम्

हे अध्वर्यवोध्वरस्यनेतारऋत्विजः क्षितीनां जनानां मध्ये वृषभाय श्रेष्ठायेन्द्राय अरुणमारोचमानं दुग्धं अभिषुतं अंशुं सोमं जुहोतन जुहुत अवपानं अवक्रम्यस्थितं दूरस्थं पातव्यं सोमं गौरात् गौरमृगादपि वेदीयान् अतिशयेन विद्वान् इन्द्रः सुतसोमं अभिषुतसोमं यजमानमिच्छन् अन्विच्छन् विश्वाहा विश्वान्यहानि इत् एव सर्वदैव याति गच्छति अतस्तस्माइन्द्राय सोमं जुहोतेत्यन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३