मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९८, ऋक् ४

संहिता

यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभि॒ः शाश॑दानान् ।
यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

पदपाठः

यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽभिः॑ । शाश॑दानान् ।
यत् । वा॒ । नृऽभिः॑ । वृतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽयुध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥

सायणभाष्यम्

हे इन्द्र महतः प्रभूतान् मन्यमानान् शत्रून्यद्यदा योधयाः अस्माभिर्योधयेः तैः सहयोद्धुं बलं प्रयच्छेरित्यर्थः तदानीं शाशदानान् हिंसत- स्तान् शत्रून् बाहुभिः आयुधनिरपेक्षैः हस्तैरेव त्वत्प्रसादात् साक्षाम सहेम अभिभवेम । यद्वा यदिवा हे इन्द्र नृभिः नेतृभिर्मरुद्भिर्वृतः त्वमेवाभियुध्याः अस्मदीयान् शत्रूनभियुध्यस्व सौश्रवसं यशोवा शोभनस्य श्रवसोहेतुं तमाजिं संग्रामं त्वया सहायेन वयं जयेम ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३