मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १००, ऋक् ५

संहिता

प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् ।
तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के ॥

पदपाठः

प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् ।
तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥

सायणभाष्यम्

हे शिपिविष्ट रश्मिभिराविष्ट विष्णो ते तव तत्प्रसिद्धं विष्णुरिति प्रख्यातं नाम अर्यः स्वामी स्तुतीनां हविषां वा तथा वयुनानि ज्ञात- व्यान्यर्थजातानि विद्वान् जानन्नहं अद्येदानीं प्रशंसामि प्रकर्षेण स्तौमि तवसं प्रवृद्धं तं त्वा त्वां विष्णुं अतव्यान् अतवीयान् अवृद्धतरोहं गृणामि स्तौमि कीदृशं अस्य रजसोलोकस्य पराके दूरदेशे क्षयन्तं निवसन्तम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५