मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०१, ऋक् ५

संहिता

इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् ।
म॒यो॒भुवो॑ वृ॒ष्टयः॑ सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥

पदपाठः

इ॒दम् । वचः॑ । प॒र्जन्या॑य । स्व॒ऽराजे॑ । हृ॒दः । अ॒स्तु॒ । अन्त॑रम् । तत् । जु॒जो॒ष॒त् ।
म॒यः॒ऽभुवः॑ । वृ॒ष्टयः॑ । स॒न्तु॒ । अ॒स्मे इति॑ । सु॒ऽपि॒प्प॒लाः । ओष॑धीः । दे॒वऽगो॑पाः ॥

सायणभाष्यम्

इदं वचोवचनं स्तोत्रं स्वराजे स्वायत्तदीप्तये पर्जन्याय क्रियते एतच्च हृदस्तदीयस्य हृदयस्य अन्तरं अन्तर्गतमस्तु सचतत्स्तोत्रं जुजोषत् सेवताम् जुषी प्रीतिसेवनयोः लेट्यडागमः छन्दसः शपःश्लुः । मयोभुवः सुख्स्य भावयित्र्यो वृष्टयः अस्मे अस्माकं तत्प्रसादात् सन्तु भवन्तु तथा देवगोपाः देवः पर्जन्यो गोपायिता रक्षिता यासां तथाविधाओषधीरोषधयश्च सुपिप्पलाः सुफलाअस्माकं भवन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः