मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०३, ऋक् ४

संहिता

अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम॑न्दिषाताम् ।
म॒ण्डूको॒ यद॒भिवृ॑ष्ट॒ः कनि॑ष्क॒न्पृश्नि॑ः सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच॑म् ॥

पदपाठः

अ॒न्यः । अ॒न्यम् । अनु॑ । गृ॒भ्णा॒ति॒ । ए॒नोः॒ । अ॒पाम् । प्र॒ऽस॒र्गे । यत् । अम॑न्दिषाताम् ।
म॒ण्डूकः॑ । यत् । अ॒भिऽवृ॑ष्टः । कनि॑स्कन् । पृश्निः॑ । स॒म्ऽपृ॒ङ्क्ते । हरि॑तेन । वाच॑म् ॥

सायणभाष्यम्

एनोः एनयोर्द्वयोर्मण्डूकयोः अन्योमण्डूकः अन्यं मण्डूकं अनुगम्य गृभ्णाति गृह्णाति अपां उदकानां प्रसर्गे प्रसर्जने वर्षणे सति यद्यदा अमन्दिषातां हृष्टावभूताम् यद्यदा च अभिवृष्टः पर्जन्येनाभिषिक्तः कनिष्कन् स्कन्दयतेर्यङ्लुङन्तस्य रूपम् भृशं स्कन्दं उत्प्लवं कुर्वन्- पृश्निः पृश्निवर्णोमण्डूकः हरितेन हरितवर्णेनान्येन मण्डूकेन वाचं संपृङ्क्ते संयोजयत उभावपि एकविधं शब्दं कुर्वाते तदानीमन्यः अन्यमनुगृभ्णातीत्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः