मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०३, ऋक् ५

संहिता

यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः ।
सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥

पदपाठः

यत् । ए॒षा॒म् । अ॒न्यः । अ॒न्यस्य॑ । वाच॑म् । शा॒क्तस्य॑ऽइव । वद॑ति । शिक्ष॑माणः ।
सर्व॑म् । तत् । ए॒षा॒म् । स॒मृधा॑ऽइव । पर्व॑ । यत् । सु॒ऽवाचः॑ । वद॑थन । अधि॑ । अ॒प्ऽसु ॥

सायणभाष्यम्

हे मण्डूकाः यद्यदा एषां युष्माकं मध्ये अन्योमण्डूकः अन्यस्य मण्डूकस्य वाचं वदत्यनुवदति अनुकरोति शिक्षमाणः शिक्ष्यमाणः शिष्यः शाक्तस्येव शक्तिमतः शिक्षकस्य वाचं यथा अनुवदति तद्वत् । यत् यदा च सुवाचः शोभवाचोयूयं सर्वे अप्सु वृष्टेपूदकेषु अध्युपरिप्लवन्तः वदथन वदत शब्दंकुरुत तत्तदा एषां युष्माकं सर्वं पर्व परुष्मत् शरीरं समृधेव समृद्धमेव अविकलावयवमेव भवति इव शब्दोवधारणे घर्मकाले मृद्भावमापन्नामण्डूकाः पुनर्वर्षणे सति अविकलांगाः प्रादुर्भवन्तीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः