मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०३, ऋक् ७

संहिता

ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद॑न्तः ।
सं॒व॒त्स॒रस्य॒ तदह॒ः परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥

पदपाठः

ब्रा॒ह्म॒णासः॑ । अ॒ति॒ऽरा॒त्रे । न । सोमे॑ । सरः॑ । न । पू॒र्णम् । अ॒भितः॑ । वद॑न्तः ।
सं॒व॒त्स॒रस्य॑ । तत् । अह॒रिति॑ । परि॑ । स्थ॒ । यत् । म॒ण्डू॒काः॒ । प्रा॒वृ॒षीण॑म् । ब॒भूव॑ ॥

सायणभाष्यम्

रात्रिमतीत्य वतंते इत्यतिरात्रः अतिरात्रे न सोमे । यथा अतिरात्राख्ये सोमयागे ब्राह्मणासो ब्राह्मणाः रात्रौ स्तुतशस्त्राणि पर्यायेण शंसन्ति हे मण्डूकाः द्वितीयोनशब्दः संप्रत्यर्थे न सम्प्रति पूर्णं सरः अभितः सर्वतः तथा वदन्तः रात्रौ शब्दं कुर्वाणायूयं तदहः तद्दिनं परिष्ठ परितः सर्वतोभवथ यदहः प्रावृषीणं प्रावृषेण्यं प्रावृषिभवं बभूव तस्मिन्नहनि सर्वतोवर्तमानाभवथेत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः