मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ४

संहिता

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् ।
उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥

पदपाठः

इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । व॒धम् । सम् । पृ॒थि॒व्याः । अ॒घऽशं॑साय । तर्ह॑णम् ।
उत् । त॒क्ष॒त॒म् । स्व॒र्य॑म् । पर्व॑तेभ्यः । येन॑ । रक्षः॑ । व॒वृ॒धा॒नम् । नि॒ऽजूर्व॑थः ॥

सायणभाष्यम्

हे इन्द्रासोमौ दिवोन्तरिक्षात् द्युलोकात् वा वधं हननसाधनमायुधं संवर्तयतमुत्पादयतं प्रुथिव्याअस्मादपि लोकात्तर्हणं हिंसकमायुधं अघशंसाय अघशंसं अनर्थस्याशंसकं राक्षसं हन्तुमुत्पादयतम् तथा पर्ततेभ्यः पर्ववद्भोमेघेभ्यः सकाशात् स्वर्यं स्वृशब्दोपतापयोः उपतापकं अशनिं उत्तक्षतं उद्धतं कुरुतम् येनाशनिना वावृधानं वर्धमानं प्रवृद्धं वा रक्षोराक्षसं निजूर्वथः निहथः जुर्वी हिंसायाम् तमशनिम् उत्तक्षतमित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः