मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २

संहिता

अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म् ।
वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥

पदपाठः

अ॒व॒ऽक्र॒क्षिण॑म् । वृ॒ष॒भम् । य॒था॒ । अ॒जुर॑म् । गाम् । न । च॒र्ष॒णि॒ऽसह॑म् ।
वि॒ऽद्वेष॑णम् । स॒म्ऽवन॑ना । उ॒भ॒य॒म्ऽक॒रम् । मंहि॑ष्ठम् । उ॒भ॒या॒विन॑म् ॥

सायणभाष्यम्

वृषभं यथा वृषभमिव अवक्रक्षिणं अवकर्षणशीलं शत्रूणां हिंसितारं अजुरं जरारहितं अहिंसितं वा गां न गामिव वृषभमिव चर्षणीसहं चर्षणीनां मनुष्याणां शत्रुभूतानामभिभवितारं विद्वेषणं विद्वेष्टारं शत्रूणां संवनना संवननं सम्यक्संभजनीयं स्तोतृभिः उभयंकरं निग्रहा- नुग्रहयोरुभयोः कर्तारम् मंहिष्ठं दातृतमम् उभयाविनं दिव्यपार्थिवलक्षणेन उभयविधधनेनोपेतं यद्वा स्थावरजङ्गमरूपेण द्विप्रकारेण रक्षितव्येनोपेतं अथवा उभयविधैः स्तोतृभिः यष्टृभिश्चोपेतम् । एवंविधमिन्द्रमित् स्तोतेत्यन्वयः ॥ २ ॥ चातुर्विशिकेहनि माध्यन्दिनसवने यच्चिद्धित्वेति प्रशास्तुर्वैकल्पिकोनुरूपःप्रगाथः सूत्रन्तुदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०