आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम् ।
इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म् ॥
आ । तु । अ॒द्य । स॒बः॒ऽदुघा॑म् । हु॒वे । गा॒य॒त्रऽवे॑पसम् ।
इन्द्र॑म् । धे॒नुम् । सु॒ऽदुघा॑म् । अन्या॑म् । इष॑म् । उ॒रुऽधा॑राम् । अ॒र॒म्ऽकृत॑म् ॥
अनया इन्द्रं धेनुरूपेण वृष्टिरूपेणच निरूपयन् स्तौति अद्येदानीं धेनुं धेनुरूपमिन्द्रं नु क्षिप्रं आहुवे आह्वये कीदृशीं धेनुं सबर्दुघां पयसो- दोग्ध्रीं गायत्रवेपसं प्रशस्यवेगां सुदुघां सुखेन दोग्धुं शक्यां अन्यामुक्तविलक्षणां उरुधारां बहूदकधारां इषं एषणीयां वृष्टिं एतद्रूपेण वर्तमानं अरंकृतं अलंकर्तारं पर्याप्तकारिणं वेन्द्रं चाह्वये ॥ १० ॥