मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १४

संहिता

अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् ।
स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥

पदपाठः

अम॑न्महि । इत् । अ॒ना॒शवः॑ । अ॒नु॒ग्रासः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।
स॒कृत् । सु । ते॒ । म॒ह॒ता । शू॒र॒ । राध॑सा । अनु॑ । स्तोम॑म् । मु॒दी॒म॒हि॒ ॥

सायणभाष्यम्

हे वृत्रहन् वृत्रस्यासुरस्य हन्तरिन्द्र अनाशवः अशीघ्राः अत्वरमाणाः अनुग्रासः अनुग्राः अनुद्गूर्णाश्च सन्तोवयं भक्तिश्रद्धापुरःसरं शनैस्त्वां अमन्महीत् स्तुमएव । हे शूर वीर्यवन्निन्द्र ते त्वदर्थं सकृत् एकवारमपि महता प्रभूतेन राधसा धनेन हविर्लक्षणेन सह शोभनं स्तोमं स्तोत्रं अनुमुदीमहि अनुमोदेमहि अनुब्रवामेत्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२