मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १७

संहिता

सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत ।
ग॒व्या वस्त्रे॑व वा॒सय॑न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥

पदपाठः

सोता॑ । हि । सोम॑म् । अद्रि॑ऽभिः । आ । ई॒म् । ए॒न॒म् । अ॒प्ऽसु । धा॒व॒त॒ ।
ग॒व्या । वस्त्रा॑ऽइव । वा॒सय॑न्तः । इत् । नरः॑ । निः । धु॒क्ष॒न् । व॒क्षणा॑भ्यः ॥

सायणभाष्यम्

हेअध्वर्यवः अद्रिभिर्ग्रावभिः सोमं सोत । हिरवधारणे अभिषुणुतैव एनमिमं अप्सु वसतीवरीषु आधावत अस्य सोमस्याधानं कुरुत । अदाभ्यग्रहेहिमांदासुतइत्यादिभिर्मंत्रैः । वसतीवरीष्वाधवनं सोमस्य क्रियते तत्कुरुतेत्यर्थः । गव्या गविभवनि वस्त्रेव वस्त्राणि आच्छादकानि चर्माणीव मेघान्वासयन्तइत् आच्छादयन्तएव नरोनेतारइन्द्रस्यानुचरामरुतः वक्षणाभ्योनदीभ्यः नदीनामर्थाय निर्धुक्षन् उदकानि निर्दुहन्ति क्षमयन्ति यतएवं अतः कारणात् इन्द्रयागाय सोममद्रिभिरभिषुणुतैव मोदासिषतेत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३