मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १८

संहिता

अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।
अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥

पदपाठः

अध॑ । ज्मः । अध॑ । वा॒ । दि॒वः । बृ॒ह॒तः । रो॒च॒नात् । अधि॑ ।
अ॒या । व॒र्ध॒स्व॒ । त॒न्वा॑ । गि॒रा । मम॑ । आ । जा॒ता । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । पृ॒ण॒ ॥

सायणभाष्यम्

हे इन्द्र अध अधुना ज्मः जमन्ति गच्छत्यस्यामिति ज्मा पृथिवी तस्याः सकाशात् अधवा अपिवा दिवोन्तरिक्षात् बृहतोमहतोरोचनात् नक्षतैर्दीप्यमानात्स्वर्गाद्वा आगत्य अधिः पञ्चम्यर्थानुवादी अया अनया तन्वा तया विस्तृतया मम मदीयया गिरा स्तुत्या वर्धस्व वृद्धोभव हे सुक्रतो शोभनकर्मवन्निन्द्र जाता जातान् अस्मदीयान् जनान् आपृण अभिलषितैः फलैरापूरय ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३