मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ३३

संहिता

अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभि॑ः स॒हस्रै॑ः ।
अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥

पदपाठः

अध॑ । प्लायो॑गिः । अति॑ । दा॒स॒त् । अ॒न्यान् । आ॒ऽस॒ङ्गः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ ।
अध॑ । उ॒क्षणः॑ । दश॑ । मह्य॑म् । रुश॑न्तः । न॒ळाःऽइ॑व । सर॑सः । निः । अ॒ति॒ष्ठ॒न् ॥

सायणभाष्यम्

अध अपिच प्लायोगिः प्लयोगनाम्नः पुत्रआसङ्गोनामराजा दशभिः दशगुणितैः सहस्रैः सहस्रसंख्याकैः गवादिभिः अन्यान् दातॄन् अति- दासत् अतिक्रम्य ददाति अधानन्तरं उक्षणः सेचनसमर्थाः मह्यं आसंगेनदत्ताः रुशन्तोदीप्यमानाः दश दशगुणितसहस्रसंख्याकाः ते गवा- दयः नळाइव नळास्तटाकोद्भवास्तृणविशेषाः ते यथा सरसः तटाकात् संघशोनिर्गच्छन्ति तथैव मह्यं दत्तागवादयः अस्मादासङ्गान्निर- तिष्ठन् निर्गत्य अवास्थिषत एवमेवंप्रकारेण मां स्तुहीति मेध्यातिथिं प्रत्युक्तत्वात् एतासां चतसृणामृचां प्लायोगिरासङ्गऋषिः सएव- देवतेत्येतदुपपन्नं भवति ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६