मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २०

संहिता

मो ष्व१॒॑द्य दु॒र्हणा॑वान्त्सा॒यं क॑रदा॒रे अ॒स्मत् ।
अ॒श्री॒र इ॑व॒ जामा॑ता ॥

पदपाठः

मो इति॑ । सु । अ॒द्य । दुः॒ऽहना॑वान् । सा॒यम् । क॒र॒त् । आ॒रे । अ॒स्मत् ।
अ॒श्री॒रःऽइ॑व । जामा॑ता ॥

सायणभाष्यम्

दुर्हणावन् परैर्दुःसहहननं दुर्हणं तद्वान् इन्द्रः अद्येदानीं अस्मदारे अस्माकं समीपे आगच्छतु सु सुष्ठु अतिशयेन सायं दिवसस्यावसानं सायंकालं मोकरत् माकार्षीत् करोतेर्माङिलुङि कृमृदृरुहिभ्यइति च्लेरङादेशः । जामाता जायत इतिजा अपत्यं तस्यानिर्माता दुहि- तुः पतिः अश्रीरइव नश्रीरश्रीः तदस्यास्तीत्यश्रीरः मत्वर्थीयोरः गुणैर्विहीनः कुत्सितोजामाता समथा असकृदाहूयमानोपि आसायंकालं विलंबते तद्वत् त्वं कालविलंबं माकृथाइत्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०