मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २८

संहिता

स्वा॒दव॒ः सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि ।
शिप्रि॒न्नृषी॑व॒ः शची॑वो॒ नायमच्छा॑ सध॒माद॑म् ॥

पदपाठः

स्वा॒दवः॑ । सोमाः॑ । आ । या॒हि॒ । श्री॒ताः । सोमाः॑ । आ । या॒हि॒ ।
शिप्रि॑न् । ऋषि॑ऽवः । शची॑ऽवः । न । अ॒यम् । अच्छ॑ । स॒ध॒ऽमाद॑म् ॥

सायणभाष्यम्

हे श्किप्रिन् शिप्रं शिरस्त्रणं यद्वा शिप्रेहनूनासिकेवा तद्वन् हे ऋषीवः ऋषिभिः स्तोतृभिर्युक्त शचीवः शक्तिमन् एवंभूत हेइन्द्र अस्मदीयाः इमे सोमाः स्वादवः अभिषवादिभिः संस्कृतत्वेन आस्वदनार्हा जाताः अतस्त्वमायाहि आगच्छ । तथा ते सोमाः श्रीताः पयआदिभिः श्रयणद्रव्यैः मिश्रिताः संस्कृताः अतोप्यायाह्यागच्छ नेतिसम्प्रत्यर्थे न सम्प्रत्ययं स्तोता सधमादं सहमादयितव्यं त्वां अच्छाभिमुखं स्तौतीतिशेषः अतोप्यायाहीत्यर्थः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२