मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३१

संहिता

ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः ।
स॒नादमृ॑क्तो दयते ॥

पदपाठः

ए॒व । इत् । ए॒षः । तु॒वि॒ऽकू॒र्मिः । वाजा॑न् । एकः॑ । वज्र॑ऽहस्तः ।
स॒नात् । अमृ॑क्तः । द॒य॒ते॒ ॥

सायणभाष्यम्

एष एवेन्द्रः तुविकूर्मिः बहुकर्मा इदितिपूरकः एकः सर्वेषु देवेषु मुख्यः वज्रहस्तोवज्रबाहुः सनात् चिरकालादारभ्य अमृक्तः शत्रुभिरबा- धितः एवंभूतः सइन्द्रः वाजानन्नानि बलानि वा दयते स्तोतृभ्योददाति ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३