प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति ।
इ॒नो वसु॒ स हि वोळ्हा॑ ॥
प्रऽभ॑र्ता । रथ॑म् । ग॒व्यन्त॑म् । अ॒पा॒कात् । चि॒त् । यम् । अव॑ति ।
इ॒नः । वसु॑ । सः । हि । वोळ्हा॑ ॥
प्रभर्ता प्रहर्ता प्रहरणशीलइन्द्रः रथं रंहणं गव्यन्तं गाइच्छन्तं यं स्तोतारं अपाकात् अविपक्वप्रज्ञात् शत्रोः चिच्छब्दोनुक्तसमुच्चयार्थः विप- क्वप्रज्ञादपि अवति रक्षति सहि सखलु स्तोता इनईश्वरः सन् वसु धनं वोह्ळा साधुवाही भवति । वहेः साधुकारिणितृन् अतोनलोका- व्ययेतिकर्मणिषष्ठ्याः प्रतिषेधः ॥ ३५ ॥