मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् ७

संहिता

अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑ ।
स॒मी॒ची॒नास॑ ऋ॒भव॒ः सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥

पदपाठः

अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ ।
स॒म्ऽई॒ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥

सायणभाष्यम्

हे इन्द्र आयवोमनुष्याः स्तोतारः स्तोमेभिः स्तोत्रैः त्वां अभिष्टुवन्ति किमर्थं पूर्वपीतये सर्वेभ्योदेवेभ्यः पूर्वं प्रथमतएव सोमस्य पानाय । सवनमुखेहि चमसगणैरिन्द्रस्यैव सोमोहूयते तथा समीचीनासः सङ्गताः ऋभवः प्रथमवाचकेन शब्देन त्रयोप्युपलक्ष्यन्ते ऋभुर्विभ्वा- वाजइत्येतेच समस्वरन् त्वामेव सम्यक् अस्तुवन् । स्वृशब्दोपतापयोः रुद्राः रुद्रपुत्राः मरुतश्च पूर्व्यं पुरातनं वृद्धं त्वामेवगृणन्त अभ्यस्तुवन् वृत्रवधसमये प्रहरभगवोजहिवीरयस्वेत्येवंरूपया वाचा त्वां स्तुतवन्तइत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६