मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् ८

संहिता

अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥

पदपाठः

अ॒स्य । इत् । इन्द्रः॑ । व॒वृ॒धे॒ । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ।
अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥

सायणभाष्यम्

अस्येत् अस्यैव यजमानस्य वृष्णयं वृषत्वं वीर्यं शवोबलं च इन्द्रोवावृधे वर्धयति सुतस्याभिषुतस्य सोमस्य पनेन विष्णवि कृत्स्नदेहस्यव्यापके मदे हर्षे सति तस्यैव यजमानस्य बलं वर्धयतीत्यर्थः । अद्यास्मिन्काले अस्येन्द्रस्य तं उक्तगुणं महिमानं महत्त्वं आय- वोमनुष्याः अनुष्टुवन्ति आनुपूर्व्येण स्तुवन्ति । पूर्वथा पूर्वशब्दादिवार्थे प्रत्नपूर्वेत्यादिना थाल् प्रत्ययः यथा पूर्वस्मिन् काले अस्तुवन् एव- मिदानीमपि तेनैवक्रमेण स्तुवन्तीत्यर्थः ॥ ८ ॥ ज्योतिष्टोमे माध्यन्दिनसवने ब्रह्मशस्त्रे तत्त्वायामीति प्रगाथोनुरूपः सूत्रितंच-तत्त्वायामिसुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपाविति । चातुर्विंशिकेहनि माध्यन्दिनसवनेप्ययंप्रगाथस्तस्मैवानुरूपः सूत्रितंच-तत्त्वायामिसुवीर्यमभिप्रवःसुराधसमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६