मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् ९

संहिता

अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि॑न्द्र ते॒ सखा॑ ।
श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑ ॥

पदपाठः

अ॒श्वी । र॒थी । सु॒ऽरू॒पः । इत् । गोऽमा॑न् । इत् । इ॒न्द्र॒ । ते॒ । सखा॑ ।
श्वा॒त्र॒ऽभाजा॑ । वय॑सा । स॒च॒ते॒ । सदा॑ । च॒न्द्रः । या॒ति॒ । स॒भाम् । उप॑ ॥

सायणभाष्यम्

हे इन्द्र ते त्व सखा मित्रभूतः पुरुषः अश्व्यादिगुणविशिष्टएव भवति इच्छब्दः प्रत्येकमभिसंबध्यते अश्वीइत् बहुभिरश्वैरुपेतएव भवति नकदाचिदश्वैर्वियुज्यते रथी रथवानेव सभवति सुरूपइत् शोभनरूपः शोभनावयवएव सभवति सुरूपइत् शोभनरूपः शोभनावयवएव सभवति गोमाँइत् बह्वीभिर्गोभिर्युक्तएव सभवति नकदाचिर्देतैर्वियुज्यतइत्यर्थः । अपिच श्वात्राभाजा श्वात्रमिति धननाम आशु अतनी- यं शीघ्रं प्राप्तव्यं शोभनं धनं संभजता ईदृग्धनसंयुक्तेन वयसा अन्ननामैतत् अन्नेन ससर्वदा सचते समवैति सङ्गच्छते षचसमवाये अतएव चन्द्रः सर्वेषामाह्लादकः सन् सभां जनसंसदं उपयात्युपगच्छति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१