मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् ११

संहिता

अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्र॑ः पिपासति ।
उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥

पदपाठः

अध्व॑र्यो॒ इति॑ । द्र॒वय॑ । त्वम् । सोम॑म् । इन्द्रः॑ । पि॒पा॒स॒ति॒ ।
उप॑ । नू॒नम् । यु॒यु॒जे॒ । वृष॑णा । हरी॒ इति॑ । आ । च॒ । ज॒गा॒म॒ । वृ॒त्र॒ऽहा ॥

सायणभाष्यम्

हे अध्वर्यो अध्वरस्य नेतः त्वं सोमं द्रावय उत्तरवेदिलक्षणं स्थानं प्रापय यद्वा रसात्मना द्रवणशीलं कुरु अभिषुण्वित्यर्थः । किंकारणमितिचेत् इन्द्रः पिपासति इमं सोमं पातुमिच्छति त्वयैतत्कथमवगतमिति चेत् तत्राह वृषणा वर्षितारौ युवानौ वा हरी अश्वौ नूनमद्य उपयुयुजे उपगम्यसारथिर्योजितवान्रथे वृत्रहा वृत्रस्य हन्ता इन्द्रश्च आजगाम आगतवान् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२